गृहसम्भाषणम् (Domestic)
गृहसम्भाषणम् (Domestic)
अद्य प्रातराशः का ? = What have you cooked for breakfast ?
अद्य पाको नाम पाकः (अद्यतन पाकः बहु सम्यक् अस्ति । = Today's cooking is really grand.
किमर्थं अद्य रुचिरेव नास्ति । = Why dishes are not tasty today ?
रुचिकरं नास्ति वा ? = Aren't they tasty, really ?
लवणं एव नास्ति । = No salt at all.
व्यञ्जने लवणं न्यूनम् । = This curry has no salt at all.
अन्नं बहु उष्णम् । = The rice is very hot.
तद् किञ्चित् परिवेषयतु । = Serve the other dish a bit more.
जलं पूरयतु । = Get me some water, please.
एकचषकं जलं आनयतु । = Get me a glass of water, please.
किञ्चित् व्यञ्जनं परिवेषयतु । = Get me some dry curry.
अन्नं = rice
क्वथितम् = Sambar
तक्रम् = buttermilk
व्यञ्जनम् = dry curry
सारः = soup
उपदंशम् = pickle
तैलम् = oil
उपसेचनम् = Chutney
लवणम् = salt
घृतम् = ghee
पर्पटम् = Pappadam
किं, न रोचते वा ? = Aren't they tasty ? Don't you like them ?
लवणं किञ्चित् अधिकम् = A bit too much of salt in it.
किं अम्ब, प्रतिदिनं सारः एव ? = Dear, why, only soup/Rasam every day ?
अद्य अपि सारः एव ? = Just soup today also ?
किं अम्ब ! कियत् परिवेषितवती ? = Dear, you have served a bit too much.
कियद् अस्ति तत् ? = Oh ! That is not much.
अम्ब ! किञ्चित् उपदंशं परिवेषयतु । = Mummy, get me some pickles, please.
अम्ब ! अद्य कदा वा भोजनम् ? = Mummy, What time are you going to serve lunch/dinner today ?
सावधानं परिवेषयतु । = Serve slowly, please.
अद्य भूरि भोजनम् । = Today we have a grand meal.
अधिकं जलं मा पिबतु, शीतं भवति । = Don't drink too much water. You will catch a cold.
अनेन व्यञ्जनं करणीयं आसीत् । = You should have cooked dry curry with this vegetable.
तेमनं न परिवेषितवती एव । = You have not served 'curd sambar' at all.
पुनः एकवारं पायसं परिवेषयतु । = May I have a second helping with 'payasam ' ?
उत्तिष्ठतु, भोजनं कुर्मः । = Get ready, please, let us have meals.
इदमिदानीं भोजनं समाप्तम् । = I have just had meals, thank you.
अहं रोटिकां न खादामि । = I do not eat 'chapathis'.
रोटिका अस्ति चेत् समीचीनं (अभविष्यत्) । = It would have been wonderful had there been 'chapatis'.
किं भोः, भोजनमेव न करोति ? = Why dear, you do not eat anything ?
अन्ने केवलं पाषाणाः । = A lot of stones in the rice.
दध्यन्नं परिवेषयामि वा ? = Shall I serve curd-rice ?
तक्रं न इच्छति वा ? = Don't you want buttermilk ?
भोजनं सम्यक् करोति चेत् क्रीडनकं ददामि । = Eat well, please. I will give a doll.
तेषां गृहे किं खादितवान् ? = What did you eat in their house ?
शीघ्रं भोजनं करोतु, विलम्बः अभवत् । = It is getting late, eat quickly.
इदानीं मास्तु, अनन्तरं ददामि । = Not now, I will give it to you later.
किञ्चित् वा दध्यन्नस्य भोजनं करोतु । = Eat at least a little curd-rice.
अद्य मधुरभक्ष्यं किम् ? = What sweets have you prepared today ?
बहु मधुरम् । = It is too sweet.
अम्ब, बुबुक्षा भवति । = Mummy, I am hungry.
मम तु इदानीं अतीव बुबुक्षा । = I am very hungry.
भोजनं सिद्धं वा ? शालायाः विलम्बः भवति । = Have you finished eating? It is getting late for school.
भोजनं कृत्वा निद्रां करोतु । = Have a nap after meals.
अस्तु, परिवेषणं करोमि । = Yes, I am going to serve in a minute.
किञ्चित् स्वीकरोतु । = Take a little.
मास्तु, अधिकं भवति । = No, thank you. It is too much for me.
परिवेषणार्थं कियान् विलम्बः ? = Dear, how long do you take to serve ?
यावद् रोचते तावदेव स्वीकरोतु । = Eat only what you can.
सर्वे मिलित्वा भोजनं कुर्मः । = Let us eat together.
अय्यो, घृतं एव न परिवेषितवती अहम्। = My goodness ! I haven't served ghee at all.
भवता वक्तव्यं आसीत् किल ? = Shouldn't you have told me that ?
कियान् विलम्बः भोः, शीघ्रं आगच्छतु । = How long do you take,come quickly.
सः इदानीं अपि न आगतवान् वा ? = Hasn't he come yet ?
स्थालिका स्थापिता वा ? = Have you laid the table ? (Have you set the plates for meals ?)
स्थालिका एव न स्थापिता ! = You haven't laid the table yet !
लवणं किञ्चित् योजयतु, सम्यक् भवति । = Add some salt. It will be O.K.
हस्तं प्रक्षाल्य उपविशतु । = Wash (the hand ) before you come for meals.
मास्तु, यथेष्टं अभवत् । = No, thank you, I have had enough.
सङ्कोचः मास्तु, आवश्यकं चेत् पृच्छतु । = Please feel at home. Ask for anything you want.
न, मम सङ्कोचः एव नास्ति । = No, I do not have any reservations.
किञ्चित् । = A little more.
अम्ब, अत्र किञ्चित् परिवेषयतु । = Mummy, get me some more.
कः लवणं आवश्यकं इति उक्तवान् ? = Who has asked for salt ?
क्वथितापेक्षया सारः एव रुचिकरः । = The soup is tastier than the `sambar'.
एकैकशः वदतु नाम । = Speak one at a time, please.
विना शब्दं भोजनं कुर्वन्तु नाम । = Eat without making too much noise.
प्रथमः कः ? सः वा भवान् वा ? = Who is first ? He or you ?
पाकः शीतलं भवति । = Dishes are getting colder.
पाकः तदानीं एव सिद्धः । = Lunch/Dinner is ready.
व्याघरणं कृतं चेत् पाकः सिद्धः । = Everything is ready. I have to season the curry, that is all.(?)
शाकः नास्ति, अहं किं करोमि ? = No vegetables, what can I do ?
भवती पक्तुं एव न जानाति अम्ब ! = Mummy, you do not know how to cook.
ह्यस्तनं व्यञ्जनं कियत् रुचिकरं आसीत् ! = How tasty was yesterday's dry curry !
कतिवारं उक्तवान् एतद् मह्यं न रोचते इति ? = How many times did I tell you that I don't like it.
तथा चेत् श्वः भवान् एव पाकं करोतु । = In that case you cook the food yourself tomorrow.
अस्य रुचिं पश्यतु । = Taste this, please.
'क्षीरं दूषितम् |= Milk has become sour.
तूष्णीं भोजनं करोतु वा ? = Will you eat without comments ?
पुनः पुनः चर्वणं कृत्वा खादतु । = Chew the food well before you swallow it.
परिवेषणं कृतं, शीघ्रं आगच्छतु । = Food is already served. Come quickly.
भवान् किमपि न खादितवान् ? = You haven't eaten anything.
पुनः परिवेषयतु । = Serve again.
Comments
Post a Comment