प्रयाणम् (Journey)
प्रयाणम् (Journey)
चीटिकां कुत्र क्रीणामि ? । = Where shall I buy a ticket ?
शीघ्रं आगच्छतु, यानं गच्छति । = Come quickly, the bus is about to start.
इदानीं एव एकं यानं गतम् । = A bus left just a few minutes ago.
अहं भवतः पार्श्वे उपविशामि । = I'll sit beside you.
किञ्चित् समञ्जनं कुर्मः । = Let us adjust a bit.
महान् जनसम्मर्दः । = Terrible rush.
परिवर्तं ददातु । = Give me the change.
अग्रे गच्छतु । = Go forward.
कदा वा निर्गच्छति ? । = What time does it start ?
शीघ्रं अवतरतु । = Get off quickly.
अग्रिमं निस्थानं अस्माकं वा ? । = Is the next station ours ?
मल्लेश्वरयानस्य का संख्या ? । = Which bus (Route No.) goes to Malleswaram?
किंसंख्याकं यानं जयनगरं गच्छति ? । = Which bus goes to Jayanagar ?
फलकमपि नास्ति, किमपि नास्ति । = No signboard, nothing.
अये, पादपथे आगच्छतु । = Hey, walk on the footpath.
मल्लेश्वरं गन्तुं कः मार्गः ? । = Which is the way to Malleswaram ?
बहुदूरे अस्ति वा ? । = Is it very far ?
एषः सङ्केतः कुत्र इति जानाति वा ? । = Could you possibly tell me where this address/place is ?
इतः केवलं दशनिमेषाणां गमनम् । = It is just ten minutes walk from here.
यानं न लब्धम् । = Missed the bus.
यानस्य निर्गमनाय इतोऽपि अर्धघण्टा अस्ति । = It is still half an hour before the bus starts.
यानं दशवादने आगच्छति । = The bus arrives at 10 0'clock.
पञ्चवादने एकं यानं अस्ति । = There is a bus at 5 0'clock.
यानं तदानीं एव आगत्य स्थितम् । = Bus has already arrived at the platform.
आरक्षणं नास्ति । = No reservation, please.
एवमेव अग्रे गच्छन्तु । = Go just along this road.
अत्रैव कुत्रचित् स्यात्, अन्वेषणं कुर्मः । = It will be somewhere here. Let us search for it.
तत्रैव अस्ति | तत्रैव स्यात् । = It is there./It might be there.
अहं न जानामि, अन्यं पृच्छतु । = I don't know, ask someone else, please.
भवान् शीघ्रं न गच्छति चेत् यानं न मिलति । = If you do not walk faster, you will miss the bus.
एषः मार्गः कुत्र गच्छति ? । = Where does this path lead to ?
भवान् आरक्षणं कृतवान् वा ? । = Have you reserved your seat ?
सर्वं स्वीकृतवान् किल ? । = You have taken everything, haven't you ?
कृपया सर्वबन्धकं स्वीकरोतु । = Please take your hold-all.
स्यूतम् = the bag.
एतद् = this.
चीटिकाम् = the ticket.
यानस्यूतम् = the air bag.
यानपेटिकाम् = the suitcase.
'वनितास्यूतम् |= the vanity bag.
धनविषये जागरूको भवतु । = Be careful with your money.
ततः आगन्तुं एतावान् विलम्बः वा ? । = Such a long time to come here from there ?
एकं अपि यानं न आगतम् । = Not a single bus has come.
षष्टिसंख्याकं यानं गतं वा ? । = Has Route 60 bus gone ?
अहं इदानीं एव आगतवान् । = I have just arrived.
कीदृशः मार्गः अयम् ! । = What a road !
Comments
Post a Comment